पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः]
363
अहल्याचरितं तत्र प्रोवाच मुनिपुङ्गवः

 [१]अदृश्या सर्वभूतानां आश्रमेऽस्मिन् वसिष्यसि ।

 इहेत्यादि । इह-आश्रमे बहूनि वर्षसहस्राणि त्वं निवत्स्यसि । कामेन पीडितवतीत्यतः-वाय्वित्यादि । इहाश्रम एव निराहारा-अन्नपानप्राप्तिरहिता, अत एव तप्यन्ती-परितप्यमाना भस्मशायिनी-नित्यभस्मावृता सर्वभूतानां अदृश्या-दृष्ट्यगोचरा केवलं वायुभक्षा सती वसिष्यसि ॥ ३० ॥

 एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ॥ ३१ ॥
 इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
 हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः

 एवं शापं उक्त्वा इममाश्रममुत्सृज्य हिमवच्छिखरे तपस्तेपे ।
 ननु शिलारूपेणावस्थाने शापं तस्य च रामपादस्पर्शे मोक्षं चोक्तवान् गौतम इति वदन्ति । तत्कथं ? त्वमेव पश्य ; शिलारूपा भवेति शापग्रन्थिः, तथा शिलारूपं जहाविति तन्मोक्षप्रति पादको ग्रन्थोऽस्तीति सा प्रसिद्धिर्निर्मूला वा ? समूलैव । कथं ? किञ्चित्पुराणप्रसिद्धिमूला । तर्हि तद्वेदं वा प्रमाणं? [२]रामेण शरसेतु-


  1. एतदनन्तरं-यदा चैतद्वनं घोरं रामो दशरथात्मजः । आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥ तस्यातिथ्येन दुर्वृत्ते ! लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ इदमधिकम् ङ.
  2. पुराणादिप्रसिद्धशिलारूपप्राप्तिशापस्तु कल्पान्तरीण इति न विरोधः । अत्र शिलारूपत्वे तात्पर्यकल्पने वातभक्षेत्यनेन विरोधः स्पष्ट एवेति केचित् । वस्तुतस्तु अदृश्येत्यस्य स्वरूपेणादृश्या, शिलाप्रतिमारूपेण सर्वदृश्येत्यर्थः । न च तावता चैतन्यहानिरिति, क्षुधादिपीडा स्यादेवेत्यतः-वातभक्षा-इति न कश्चिद्विरोध-तदुक्तं पाद्मे-'शापदग्धा पुरा भर्त्रा राम ! शक्रापराधतः । अहल्याख्या शिला जशे शतलिङ्गः कृतः स्वराट् ' इति-ति ॥