प्रयत्नान्निर्मितामित्यादिना देवराजाभिलषीयदिव्यरूपत्वमुक्तम् । [१]सतुषारावृतसाभ्रपूर्णचन्द्रप्रभोपमानं, निबिडवृक्षाश्रममध्यवर्तिशान्ततेजोरूपत्वात् । मध्येऽभस इत्यादिना प्रतिमासूर्योपमानं । पृष्ठीकृतावरणोपाधिशुद्धसहजतजसि इदानीं शापान्त एवं स्वभावा एषा ॥ १४ ॥
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ १५ ॥
त्रयाणामपि लोकानां यावत् रामस्य दर्शनम् ।
शापस्थान्तमुपागम्य तेषां दर्शनमागता ॥ १६ ॥
सा हि गौतमशापवाक्येन यावद्रामस्य दर्शनं दुर्निरीक्ष्या बभूव । सैषा शापस्यान्तमुपागम्य दिव्यरूपा सती तेषां दर्शनमागता ॥ १६ ॥
राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १७॥
गौतमवचः स्मरन्ती-अस्मदाश्रमप्राप्तराघवपूजया पुनरस्मत्सम्बन्धोऽस्त्वित्येवंरूपं-स्वभर्तृवचनं स्मरन्ती । तत एव हेतोः तौ प्रतिजग्राह । [२]तयोः पूजनीयत्वबुद्धिमकरोदित्यर्थः ॥ १७ ॥
पाद्यमर्ध्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह [३]काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १८ ॥
पुष्पवृष्टिर्महत्यासीत् देवदुन्दुभिनिस्वनैः ।
गन्धर्वाप्सरसां चापि महानासीत् समागमः ॥ १९ ॥
पुष्पवृष्टिरासीदिति । रामस्येति शेषः ॥ १९ ॥