पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
360
[बालकाण्डः
अहल्याशापः

 प्रश्नस्यास्य अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषः-हन्तेति । महात्मना कोपात् शप्तं-प्राप्तशापं इदं आश्रमपदं यस्य भवति, तत्, कथयिष्यामि ; तत्त्वेन तत् श्रुण्विति योजना ॥ १४ ॥

 गौतमस्य नरश्रेष्ठ ! पूर्वमासीन्महात्मनः ॥ १५ ॥
 आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ।

 तदेव प्रतिपाद्यते-गौतमस्येत्यादि । दिव्यसङ्काशः-दिव्यत्वेन सङ्काशमानः ॥ १५ ॥

 स चेह तप आतिष्ठदहल्यासहितः पुरा ॥ १६ ॥
 वर्ष [१]पूगान्यनेकानि राजपुत्र महायशः !

 वर्षपूगानि–अनेकवर्षाणि ॥ १६ ॥

 तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ॥ १७॥
 मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ।

 अन्तरं-मुनिसन्निधानरहितकालं । मुनिवेषधर इति। गौतमवेषधर इत्यर्थः । 'मम रूपं समास्थाय' इति वक्ष्यमाणत्वादेवं व्याख्या ॥ १७ ॥

 ऋतुकालं प्रतीक्षन्ते नार्थिनः [२]सुसमाहिते !
 सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ! ॥ १९ ॥

 ऋतुकालं-शास्त्रीयस्त्रीसंसर्गकालं । अर्थिन इति । कामात् सम्भोगार्थिन इत्यर्थः । काले सुसमाहिते-सङ्गमोचितकाले सुसङ्घट्टिते सति ऋतुकालं न प्रतीक्षन्त इति योजना । हे सुमध्यमे ! इत्यनेन स्वेनाप्यभिलष्यदिव्यस्त्रीत्वं सूचितम् ॥ १९ ॥


  1. पूगान्-गो. एतदनन्तरं-'कदाचिद्दिवसे राम ततो दूरं गते मुनौ'-इत्यधिकं-ङ.
  2. सुसमाहिते-सम्यक् ब्रह्मणा निर्मिते ! हे अतिसुन्दरीत्यर्थः-गो.