प्रश्नस्यास्य अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषः-हन्तेति । महात्मना कोपात् शप्तं-प्राप्तशापं इदं आश्रमपदं यस्य भवति, तत्, कथयिष्यामि ; तत्त्वेन तत् श्रुण्विति योजना ॥ १४ ॥
गौतमस्य नरश्रेष्ठ ! पूर्वमासीन्महात्मनः ॥ १५ ॥
आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ।
तदेव प्रतिपाद्यते-गौतमस्येत्यादि । दिव्यसङ्काशः-दिव्यत्वेन सङ्काशमानः ॥ १५ ॥
स चेह तप आतिष्ठदहल्यासहितः पुरा ॥ १६ ॥
वर्ष [१]पूगान्यनेकानि राजपुत्र महायशः !
वर्षपूगानि–अनेकवर्षाणि ॥ १६ ॥
तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ॥ १७॥
मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ।
अन्तरं-मुनिसन्निधानरहितकालं । मुनिवेषधर इति। गौतमवेषधर इत्यर्थः । 'मम रूपं समास्थाय' इति वक्ष्यमाणत्वादेवं व्याख्या ॥ १७ ॥
ऋतुकालं प्रतीक्षन्ते नार्थिनः [२]सुसमाहिते !
सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ! ॥ १९ ॥
ऋतुकालं-शास्त्रीयस्त्रीसंसर्गकालं । अर्थिन इति । कामात् सम्भोगार्थिन इत्यर्थः । काले सुसमाहिते-सङ्गमोचितकाले सुसङ्घट्टिते सति ऋतुकालं न प्रतीक्षन्त इति योजना । हे सुमध्यमे ! इत्यनेन स्वेनाप्यभिलष्यदिव्यस्त्रीत्वं सूचितम् ॥ १९ ॥