पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः]
361
मिथिलोपवने ते तु गौतमाश्रममाप्नुवन्

 [१]मुनिवेषं सहस्राक्षं विज्ञाय रघनन्दन !
 [२]मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ २० ॥

 मुनिवेषं सहस्राक्षं विज्ञायेति । 'ऋतुकालं प्रतीक्षन्ते नार्थिनः' इति वचनात् गौतमव्यतिरिक्तस्याश्रमवर्तिसर्वप्राणिजातस्य नैश्शङ्क्याय गौतम वेषधरोऽयमिन्द्र इति विज्ञायेत्यर्थः । अथाऽपि कथमिन्द्रत्व-निश्चयः ? अन्येनैवं मयि प्रवृत्तेरशक्यार्थत्वादित्यनुमानात्, इन्द्रेणैव स्वतस्तत्त्वप्रकाशनाद्वा । देवराजो मामभिलषितवानिति कुतूहलं तथा, तेन हेतुना सम्भोगे मतिं चकार-कृतवती च ॥ २० ॥

 अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
 [३]कृतार्थाऽस्मि सुरश्रेष्ठ ! गच्छ शीघ्रमितः प्रभो ! ॥२१॥

 अथ-सम्भोगानन्तरम् ॥ २१ ॥

 आत्मानं मां च देवेश ! सर्वदा रक्ष मानद !
 इन्द्रस्तु [४]प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥ २२ ॥

 आत्मन् शब्दः इन्द्रार्थः ॥ २२ ॥

 सुश्रोणि ! परितुष्टोऽस्मि गमिष्यामि यथाऽऽगतम् ।
 एवं सङ्गम्य तु तथा निश्चक्रामोटजात् ततः ॥ २३ ॥
 स संभ्रमात् त्वरन् राम ! शङ्कितो गौतमं प्रति ।

 स इति पृथक्पदम् । सम्भ्रमः-मोहः; 'सम्भ्रमोऽत्यादरे भये' इति वैजयन्ती । गौतमं प्रति शङ्कितः-शङ्कावान् ॥ २३ ॥


  1. सहस्राक्षं विज्ञाय-कदाचिदपि मुनिना एवमर्थनाभावात्, अन्यस्यात्र प्रवेष्टुमशक्तेः, इन्द्रस्यैवात्मनि बहुकालमभिलाषश्रवणाच्चेति भावः- गो. 'मम रूपं समास्थाय
    (श्लो. २९) इत्युक्तेरत्र मुनिवेषः गौतमवेषः ।
  2. रतिं चकार-ङ.
  3. कृतार्थोऽसि-ङ
  4. विशिष्टस्त्रीचरितेन प्रहासः, रक्षणस्य दुर्लभस्वाद्वा-ति.