पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७ सर्गः]
355
दित्याश्रमप्रदेशेऽस्मिन् विशाला निर्मिता पुरी

इति । तत्र आसमन्ताद्वाही आवहो गगनमयब्रह्मलोकपालकत्वात् गगनाख्यो ज्येष्ठः । तथाऽन्येपि द्रष्टव्याः ॥ ८ ॥

 एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ॥ ९ ॥
 जग्मतुस्त्रिदिवं, राम ! कृतार्थाविति नः श्रुतम् ।

 मातापुत्राविति । 'आनङृतः' इत्यत्र ऋत इति पुत्र इत्यप्यनुवर्तनात् पुत्रेत्युत्तरपदे ऋकारान्तस्य आनङ् । नः श्रुतमिति । मतिबुद्धीत्यादिना वर्तमानोक्तेः ‘क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अस्माभिः श्रूयत इत्यर्थः ॥ ९ ॥

 एष देशस्स काकुत्स्थ ! महेन्द्राध्युषितः पुरा ॥ १० ॥
 दितिं यत्र तपस्सिद्धामेवं परिचचार सः ।

 एवं वर्णितेन्द्रचरितस्य प्रकृतशेषत्वं प्रदर्श्यते-एष इत्यादि । स एष इत्यन्वयः । एवमिति प्रागुक्तरीत्यनुवादः ॥ १० ॥

 इक्ष्वाकोस्तु, नरव्याघ्र ! पुत्रः परमधार्मिकः ॥ ११ ॥
 अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः ।

 एवमुक्तप्राशस्त्ये देशे विशालोत्पत्तिकथनम्-इक्ष्वाकोस्त्वित्यादि ।

 तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ १२ ॥
 विशालस्य सुतो राम ! हेमचन्द्रो महाबलः ।

 कृता आसीत् इत्यन्वयः। एवं विशालामुपवर्ण्य, 'कतरो राजवंशोऽद्य विशालायाम्' इत्युत्तरशेषतया वंशपरम्परा प्रतिपाद्यते-विशालस्येत्यादि ॥ १२ ॥

 सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ १३ ॥
 सुचन्द्रतनयो राम ! धुम्राश्व इति विश्रुतः ।