पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
354
[बालकाण्डः
विशालागमनम्

त्यतः-मरुतामित्यादि । इमे त्वत्तो विभक्ताः सप्त वातस्कन्धाः- वातसंस्थानविशेषाः सप्तानां मरुतां सप्तसङ्ख्याका स्थानपाला भवन्तु-लोकरक्षिणो भवन्तु । तदर्थमेव चेमे सप्त मे पुत्रका दिवि-खे चरन्तु । अपि च दिव्यरूपा ममात्मजाः मारुता इति विख्याताश्च भवन्तु ॥

 ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथाऽपरः ।
 दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ ५ ॥

 केषां सप्तमरुतां स्थानपाला इमे भवन्त्वित्यतः-ब्रह्मलोकमिति । ब्रह्मलोकं-ब्रह्मस्थानं पालयन् चरतु । तथा इन्द्रलोकमित्यादि । दिवि-अन्तरिक्षे, विष्णुलोक इत्यर्थः ॥ ५ ॥

 चत्वारस्तु, सुरश्रेष्ठ । दिशो वै तव शासनात् ।
 सञ्चरिष्यन्तु, भद्रं ते, देवभूता ममात्मजाः ॥ ६ ॥
 त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ।

 दिशः-पूर्वादिमहादिशः । त्वत्कृतेनेति । मारुदो मारुद इति वचनमूलेनेति शेषः ॥ ६॥

 तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ॥ ७ ॥
 उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ।
 सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ॥ ८ ॥
 विचरिष्यन्ति, भद्रं ते, देवरूपास्तवात्मजाः ।

 यथोक्तमिति । ब्रह्मविष्णुरुद्रचतुर्दिक्पालस्थानपालकतादिरूपमित्यर्थः । अत्र ब्रह्मादिस्थानपालवायूनां नामानि तु– “गगनस्स्पर्शनो वायुरनिलश्च तथाऽपरः । प्राणः प्राणेश्वरो जीव इत्येते मारुताः स्मृताः" इति । तेषां कर्मनामानि तु-'आवहप्रवहसंवहोद्वहानुवहपरिवहविहवाः'