पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७ सर्गः]
353
शक्रस्य वचनात् ते तु बभूवुः सप्त मारुताः

 आहवे शक्रस्य-मम हन्तारं अङ्कुरच्छेदन्यायेन अभिन्दं । तन्मे अपचारं त्वं क्षन्तुं अर्हसि । 'यो हिंसार्थमभिक्रान्तं हन्ति, मन्युरेव मन्युं स्पृशति, न तस्मिन् दोषः' इत्यादिधर्मशास्त्रात् स्ववधप्राप्तगवादेरपि हननमदोष इति मत्वैवेदं कृतं, अतस्त्वया क्षन्तव्यमेव ; न मयि कोऽपि दोष इत्यर्थः । गर (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्चत्वारिंशः सर्गः

अथ सप्तचत्वारिंशः सर्गः
[ विशालागमनम् ]

 सप्तधा तु कृते गर्भे दितिः परमदुःखिता।
 सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत् ॥ १ ॥

 अथ गर्भेभेदात्परं किं वृत्तं दितिशक्रयोरित्यतः-सप्तवेत्यादि । दुराधर्षमिति । न्याय्योपायजेतृत्वादित्याशयः ॥ १ ॥

 ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः ।
 नापराधोऽस्ति, देवेश ! तवात्र बलसूदन ! ॥ २ ॥

 स एवोच्यते-ममेत्यादि ॥ २ ॥

 प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।
 मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ॥ ३ ॥
 वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः ।
 मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४ ॥

 गर्भस्य विपर्ययः–विपत्तिः, तन्निमित्तप्राप्तौ यत्त्वया कृतं सप्तधा विभागरूपं कर्म, तत् तव यथा प्रियं भवति तथा कर्तुं इच्छामि। कथमि-