तस्याः शरीरविवरं प्रविवेश पुरन्दरः ।
गर्भं च सप्तधा, राम ! विभेद परमात्मवान् ॥ १८ ॥
शरीरविवरं गर्भच्छेदाय प्रविवेश । प्रवेशोचितं योनिविवरमित्यर्थः॥
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।
रुरोद सस्वरं, राम ! ततो दितिरबुध्यत ॥ १९ ॥
शतपर्वणेति । 'शतकोटिः' इति प्रसिद्धं शतपर्वत्वं । तत इति । भिद्यमानगर्भस्य रोदनशब्देनेत्यर्थः ॥ १९ ॥
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ।
बिभेद च महातेजा रुदन्तमपि वासवः ॥ २० ॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततश्शक्रो मातुर्वचनगौरवात् ॥ २१ ॥
न हन्तव्य इति । विभागेऽपि प्राणवियोजनं मा कुर्वित्यर्थः ॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
[१]अशुचिर्देवि ! सुप्ताऽसि पादयोः कृतमूर्धजा ॥ २२ ॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
अभिदं सप्तधा, देवि ! तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्चत्वारिंशः सर्गः
- ↑ पादयोः कृतमूर्धजा, अत एव अशुचिस्सती त्वं सुप्ताऽसि इत्यन्वयः ।