तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।
त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १५ ॥
हे पुत्र ! अहं तं-त्वद्भातरं त्वज्जयोत्सुकं त्वत्कृते-त्वत्सुखार्थं समाधास्ये-गतवैरं भ्रातृस्नेहवन्तमेव करिष्ये इत्यर्थः । त्रैलोक्यविजयमिति–त्वद्भ्रातृगतामिति शेषः ॥ १५ ॥
एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे ।
निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षतः ॥ १६ ॥
'प्राप्ते मध्यं दिवाकरे' इत्यनेन दिवास्वापरूपं पापं सूचितम् । पादौ कृत्वाऽथ शीर्षत इति । आद्यादित्वात् षष्ठ्यर्थे तसिः । शीर्षस्याधसस्थाने पादौ कृत्वा । कथमेवं भवति? शिरसस्तु निद्रावशात्- पादयोः प्रह्वता यदा भवति तदैव स्पष्टमुच्यते, पादयोर्निद्रावशतः शिरसः स्थापनेन मूर्धजानामपि पादयोः कृतत्वं भवति ॥ १६ ॥
दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ।
शिरस्स्थाने कृतौ पादौ, जहास च मुमोद च ॥ १७ ॥
उक्त एवार्थ उपपाद्यते-शिर इत्यादि । शिरसोऽधस्स्थाने पादौ सुस्पष्टौ कृतौ । एवं च ब्राह्मणस्य शुद्धस्पर्शेनेव शिरः पादस्पर्शतः अशुचिं-प्राप्ताशुचिं तां दृष्टा प्राप्तरन्ध्रत्वात् मुमोद । मोदवशात् जहास च-स्मितमपि प्राप्तवानित्यर्थः । [१] कश्चित्तु शय्यायां यत्र पादौ निधीय्येते तत्र पादयोः स्थाने कृतमूर्धजामित्याह । परिवृत्य शयनमपि किं पापं ? कुतश्च मध्याह्ने यथाप्राप्तशय्याप्रसक्तिः ? तपश्चरन्त्यास्तस्याः कदाऽपि शय्यामात्रस्य? वक्तत्रः वदतु यथेष्टमज्ञानात् ॥ १७ ॥
- ↑ महेश्वरतीर्थः । गोविन्दरजीयेऽप्येवं दृश्यते ॥