तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।
सहस्राक्षो नरश्रेष्ठ ! परया गुणसम्पदा ॥ ९ ॥
परया गुणसम्पदेति । शुश्रूषकसुपुत्रगुणगणसम्पदेत्यर्थः ॥ ९॥
अग्निं कुशान् काष्ठमयः फलं मूलं तथैव च ।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ॥ १० ॥
गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ ११ ॥
सैव गुणसम्पत् प्रकाश्यते-अग्निं कुशानित्यादि । पुत्रत्वाद्गात्रसंवाहनादिः । दितिं परिचचारेति कथनं एवं पितृवचनस्याशक्यान्यथातनत्वात् भविष्यदरातेः मातृप्रीत्या आराददितिवक्ष्यमाणरीत्या सौमनस्यसिद्धयेऽसत्याशुच्यवकाशे न्यायप्राप्तरातिविनाशाय । अथापि कथमेतत्परिचर्यामियेष दितिः ? दैवभाययैवेति केवलमिहोत्तरम् ॥ १०-११ ॥
अथ वर्षसहस्रे तु दशोने रघुनन्दन !
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥
दशभिरूनं-दशोनम् ॥ १२ ॥
याचितेन सुरश्रेष्ठ ! पित्रा तव महात्मना ।
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १३ ॥
सुतं प्रतीति । सुतप्राप्तिं प्रतीत्यर्थः ॥ १३ ॥
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर !
अवशिष्टानि, भद्रं ते, भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥
तदर्थ-तपश्चरन्त्या इति षष्ठी ॥ १४ ॥