पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
347
तदा प्रवृत्ते रणे घोरे देवा दैत्यानसूदयन्

 अथ तस्य कृते राम ! महानासीत् कुलक्षयः ।
 अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ २७ ॥

 अथ तस्य कृत इति । तस्यामृतस्य ग्रहणनिमित्तमित्यर्थः । ततः-कलहप्रवृत्यानन्तरं ॥ २७ ॥

 एकतामगमन् सर्वे ह्यसुरा राक्षसैस्सह ।
 युद्धमासीन्महाघोरं वीर ! त्रैलोक्यमोहनम् ॥ २८ ॥

 असुरा राक्षसैः सह एकतामगमन् । अदितिपुत्रसूद्यमानानां स्वेषां बलसिद्ध्यर्थमिति शेषः । वीरेति सम्बुद्धिः ॥ २८ ॥

 यदा [१]क्षयं गताः सर्वे तदा विष्णुर्महाबलः ।
 अमृतं सोऽहरत्तूर्ण मायामास्थाय मोहिनीम् ॥ २९ ॥

 सर्व इति । परस्परप्रहारेण सामान्यात् सर्वदेवासुरा अमृता-निमानिनो यदा क्षयं गताः-क्षयप्रायं गताः, तदा अमृतस्य सुहरवात् सः-प्रसिद्धः विष्णुः मध्यस्थत्वबुद्धयुत्पादनाय मोहिनी-काममोह-जननीं मायां-मायातनुमास्थाय तूर्गममृतमहरत् ॥ २९ ॥

 ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
 सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ ३० ॥

 अथ ये गताभिमुखं, सवर्णदीर्घ आर्षः, ये सुरा असुरा वा मायामूर्त्या गृहीतामृतं विष्णुनभिमुखा अमृतजिघृक्षया गताः- प्राप्ताः,ते सर्वे तदा मूर्त्यन्तरास्थानेन प्रभविष्णुना विष्णुना युद्धे (सर्वे) सम्पिष्टाः । उभयेषां मध्ये ये जितास्तेभ्य इदं अमृतं [२]दास्यति, बलात्कारेणास्या-मृतादितॄनहं हन्मीत्युक्त्वा सामान्यतस्सर्वे सुरा निवारिता इत्यर्थः ॥


  1. क्षयं गतं सर्वम्-ङ.
  2. दास्यामि, इति स्यात् ।