पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
346
[बालकाण्डः
क्षीरार्णवमथनम्

 वरुणस्य ततः कन्या वारुणी रघुनन्दन !
 उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ २३ ॥

 वरुणस्येति । क्षीरार्णवाधिष्ठातृदेवताया इत्यर्थः । परिग्रहमिति । केनचित् पत्या असाधारण्येन परिग्रहमित्यर्थः ॥ २३ ॥

 दितेः पुत्रा न तां राम ! जगृहुर्वरुणात्मजाम् ।
 अदितेस्तु सुता वीर ! जगृहुस्तामनिन्दिताम् ॥ २४ ॥

 अदितिसुतैर्वारुणीपरिग्रहे हेतुः-अनिन्दितामिति । कथं एतत् ?- शास्त्रेणाधिकारिविशेषविषयेऽविमानात् ; शास्त्रस्य च देवतानधिकारात् स्वरूपतस्तद्ग्राहिणां सुखहेतुत्वश्रवणाच्च अनिन्दितत्वम् ॥ २४ ॥

 असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।
 हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः ॥ २५ ॥

 सुरास्तेनेति मत्वर्थीयाजन्तः । येन सुरापरिग्रह एषामस्ति तेनेत्यर्थः ॥ २५ ॥

 [१]उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
 उदतिष्ठन्नरश्रेष्ठ ! तथैवामृतमुत्तमम् ॥ २६ ॥


  1. एतदनन्तरं -
    उदतिष्टन्नरश्रेष्ठ सोमदेवस्तथैव च । तुरगं देवराजाय कौस्तुभं केशवाय च ॥ धन्वन्तरिर्महातेजा लोकरक्षणतत्परः । आयुर्वेदमयो राम तथा साधारणः स्मृतः ॥ सुरासुराश्चगन्धर्वः क्षोभयामासुरम्बुधिम् । ततो दीर्घेण कालेन चोत्पन्ना कमलालया ॥ अतीव रूपसम्पन्ना प्रथमे वयसि स्थिता । सर्वाभरणपूर्णाङ्गी सर्वलक्षणलक्षिता ॥ मकुटाङ्गदचित्राङ्गी नीलकुचितमूर्धजा । तप्तहाटकसङ्काशा मुक्ताभरणभूषिता ॥ चतुभुजा महादेवी पद्महस्ता वरानना । सा च देवी तथोत्पन्ना पद्मा श्रीर्लोकपूजिता ॥ सा पद्मा पद्मनाभस्य ययौ वक्षःस्थलं हरेः । इत्यधिकं क्वचित्-ङ.