पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
345
पूर्वे ममन्थुः क्षीरोधिं अमृताय सुरासुराः

 अथ वर्षसहस्रेण सदण्डः सकमण्डलुः ।
 पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ १९ ॥

 धन्वन्तरिरिति । उत्पपातेति योजना । अप्सरा इत्याकारान्तात् बहुवचनम् ॥ १९ ॥

 अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः ।
 उत्पेतुर्मनुजश्रेष्ठ ! तस्मादप्सरसोऽभवन् ॥ २० ॥

 अप्सु निर्मिथनादिति । अब्विकारक्षीरनिर्मथनादित्यर्थः । अलुक् छान्दसः । तस्मादिति । मथ्यमानात् क्षीरोदलवणादपां सरसो रसादुत्पन्नत्वादेवेत्यर्थः । पृषोदरादित्वात्साधुः ॥ २० ॥

 षष्टिः कोट्योऽभवस्तासां अप्सराणां सुवर्चसाम् ।
 असङ्ख्येयास्तु काकुत्स्थ ! यास्तासां परिचारिकाः ॥ २१ ॥

 तासामिति। षष्ठिकोटिसङ्ख्यानां प्रधानाप्सरसामित्यर्थः ॥ २१ ॥

 न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।
 अप्रतिग्रहणादेव तेन साधारणाः स्मृताः ॥ २२ ॥

 न ताः प्रतिगृह्णन्ति स्मेति । अपरिमितपरिचारकोपेतषष्टिकोट्यप्सरस इति यावत् । ममैवेमा नान्यस्येत्यसाधारण्येन न प्रतिगृह्णन्ति स्म, देवा दानवाश्चेत्यर्थः । किं विरक्ता: ? उत ताः दुर्भगाः ? यतोऽप्रतिग्रहः–उच्यते-तासां देवदानवमध्ये विशिष्य वारुणीवत् किञ्चित्पतिमार्गणाभावेन य आयाति स आयातु न इति सम्मुग्धाकारतया स्थितत्वादेव विशिष्य तासां प्रतिग्रहाभावः । तदेवोक्तम्-अप्रतिग्रहणादित्यादि ॥ २२ ॥