पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
348
[बालकाण्डः
दितिगर्भभेदनम्

 अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।
 तस्मिन् युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ॥ ३१ ॥

 ततश्चामृतजिघृक्षया जयाय दैतेयादित्ययोः-दितिशब्द औणादिककृतीकारान्तः । तस्मात् 'कृतिकारादक्तिनः' इति ङीषि 'स्त्रीभ्यो ढक्' इति ढकि दैतेयाः, 'दित्यदित्यादित्य' इत्यदितिशब्दात् ण्यः-आदित्याः; तयोरुभयोः भृशं प्रवृत्ते तस्मिन् युद्धे अदितेरात्मजाः दितेः पुत्रान्निजन्निरे । धार्मिकत्वतो भगवद्विष्ण्वनुग्रहवत्त्वादिति शेषः ॥

 निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः ।
 शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः

 दितिपुत्रांश्च राज्यमित्यत्र चकारेण राज्यममृतं च प्राप्येत्यर्थः । अत्र 'ममन्थुरमितौजसः' इत्यनन्तरं हालाहलोत्पत्त्यादिप्रतिपादकं पुराणान्तरस्थमत्र प्रक्षिप्य [१]अन्यस्तद्व्याचकार । नास्माभिः प्राचीनसुशुद्ध-पुस्तकेषु ते श्लोका दृश्यन्ते । ननु कथं तत्प्रसङ्गस्येहावर्णनं? अमृतप्रदानराहुशिरच्छेदप्रसङ्गस्य वा कुतो न वर्णनं ? सङ्क्षेपादिति चेत्-सा दृष्टिरत्रापि दीयताम् । खल (३२) मानः सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चचत्वारिंशः सर्गः

अथ षट्चत्वारिंशः सर्गः
[दितिगर्भभेदनम्]

 हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
 मारीचं काश्यपं राम ! भर्तारमिदमब्रवीत् ॥ १ ॥

किन्तत इत्यतो ब्रूते-हतेष्वित्यादि ॥ १ ॥


  1. महेश्वरतीर्थः.