पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५ सर्गः]
343
रामेण पृष्टः प्रोवाच विशालाचरितं मुनिः

 एवं प्रश्ने सम्प्रत्ययं वर्तत इत्युत्तरशेषतया विशालाया महादेवतासिद्धिक्षेत्रत्वेन महाक्षेत्रत्वं, पश्चात्काले विशालपुरीनिर्मितिश्चोच्यते-आख्यातुमित्यादिना । विशालस्येति । विशालापुर्यधिष्ठानदेशस्येत्यर्थः । तस्य पुरातनमिति । विशालापुरीनिर्मितेः प्राक्तनं वृत्तान्तमिति शेषः ॥ ।

 श्रूयतां राम ! शक्रस्य कथां कथयतः शुभाम् ।
 अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ! ॥ १४ ॥

 शक्रस्य कथां विशालावैभवप्रतिपादनशेषतया कथयतो मत्तः सकाशात् कथा श्रूयतां । अस्मिन् देशे-विशालपुर्यधिष्ठानदेशे । यद्वृत्तमिति । पुरातनं भूतत्वेन श्रुण्विति योजना ॥ १४ ॥

 पूर्वं कृतयुगे राम ! दितेः पुत्रा महाबलाः ।
 अदितेश्च महामाग ! वीर्यवन्तः सुधार्मिकाः ॥ १५ ॥

 अदितिपुत्रानामभ्याधिकं विशेषणं-सुधार्मिका इति । आसन्निति शेषः ॥ १५ ॥

 ततस्तेषां नरश्रेष्ठ ! बुद्धिरासीन्महात्मनाम् ।
 अमरा अजराश्चैव कथं स्याम निरामयाः ॥ १६ ॥

 म्रियन्त इति मराः; पचाद्यच् । अमराः-मरणधर्मरहिता इति यावत् । जरा-कालवशावर्ज्यप्राप्तदुःखं, आमयाः-शक्याशक्यप्रतिक्रिया व्याधयः । एतावदेव सांसारिकदुःखम् ॥ १६ ॥

 तेषां चिन्तयतां राम ! बुद्धिरासीन्महात्मनाम् ।
 क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १७ ॥

 तत्र वै-क्षीरोदे प्रसिद्धं रसं-सारममृतरूपरसायनमित्यर्थः ॥ १७॥