पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
342
[बालकाण्डः
क्षीरार्णवमथनम्

 राघववचनप्रकारः-गतेत्यादि । तरामः-तरणं कुर्मः । शुभमास्तीर्णं-आस्तरणं यस्यास्सा तथा । ऋषीणां नौस्त्वरितमागतेति योजना ॥ ७ ॥

 तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ ८ ॥
 संतारं कारयामास [१]सर्षिसङ्घः सराघवः ।

 कारयामासेति । स्वार्थे णिः । अकरोदिति यावत् [२] ॥ ८ ॥

 उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ॥ ९ ॥
 गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ।

 सम्पूज्यर्षिगणमिति । नावानायकमिति शेषः ॥ ९ ॥

 ततो मुनिवरस्तूर्णं जगाम सह राघवः ॥ १० ॥
 विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ।

 दृष्ट्वा विशालां जगामेति योजना ॥ १० ॥

 अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ॥ ११ ॥
 पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ।

 विशालां पप्रच्छेति । विशालाविषयं प्रश्नं कृतवानित्यर्थः ॥

 कतरो राजवंशोऽयं विशालायां महामुने !
 श्रोतुमिच्छामि, भद्रं ते, परं कौतूहलं हि मे ॥ १२ ॥
 तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
 आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥


  1. सर्षिसङ्घस्य कौशिकः-ङ.
  2. कौशिक इति शेषः