अथ पञ्चचत्वारिंशः सर्गः
[ क्षीरार्णवमथनम् ]
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १ ॥
अथ महेन्द्रचरितपुण्यकथा च प्रसङ्गात्सर्गत्रयेण-विश्वामित्र- वच इत्यादि । विश्वामित्रमब्रवीत् । रात्रिकाले इति शेषः ॥ १ ॥
अत्यद्भुतमिदं ब्रह्मन् ! कथितं परमं त्वया ।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ २ ॥
क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः !
इमां चिन्तयतस्सर्वां निखिलेन कथां तव ॥ ३ ॥
सन्तुष्टं मे मनो ब्रह्मन् ! इत्युक्त्वा विरराम ह ।
तव कथामिति । तवोपदेशश्रुतार्थमित्यर्थः ॥ ३ ॥
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ॥ ४ ॥
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ।
तस्य रामस्य चिन्तयानस्य जगामेति तच्चिन्तोपेततया अ तीतेत्यर्थः ॥ ४ ॥
ततः प्रभाते विमले विश्वामित्रं महामुनिम् ॥ ५॥
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ।
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ॥ ६ ॥
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ॥ ७ ॥
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ।