पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३ सर्गः]
329
ततो व्योम्नोऽपतत् गङ्गा वेगेन शिवमूर्धनि

अथ त्रिचत्वारिंशः सर्गः
[गङ्गावतरणम्]

 देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।
 कृत्वा वसुमतिं राम ! संवत्सरमुपासत ॥ १ ॥

 अथ भगीरथस्य गङ्गावतरणयात्राशेषकथनम्-देवदेव इत्यादि । आजानजानामपि देवानां देवः, 'सर्वालङ्कारोपचारभूतिकृत्याविमुक्ततानीत्यादियोगाद्देवतानामीशस्स्वेशित्रनुग्रहादित्युच्यमानदिविदेवधर्मत्वसम्पादकः। अङ्गुष्ठाग्रेति । एकाङ्गुष्ठाग्रेणेति यावत् । उपासतेति । छान्दसं बहुवचनम् । उमापतिमिति शेषः ॥ १ ॥

 [ऊर्ध्वबाहुर्निरालम्बो वायुभक्षो निराश्रयः ।
 अचलस्स्थाणुवत् स्थित्वा रात्रिंदिवमरिन्दम ! ॥]
 अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
 उमापतिः पशुपती राजानमिदमब्रवीत् ॥ २ ॥
 प्रीतस्तेऽहं नरश्रेष्ठ ! करिष्यामि तव प्रियम् ।
 [तमब्रवीनृपवरो गङ्गां धारय वै हर ! ॥
 इत्युक्तो वचनं भर्गः करिष्यामि प्रियं तव ।]
 शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ३ ॥
 [१]ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
 तथा सतिमहद्रूपं कृत्वा वेगं च दुस्सहम् ॥ ४ ॥
 आकाशादपतद्राम ! शिवे शिवशिरस्युत ।

 तथा सतीति । ईश्वरेण धारणाङ्गीकारे सतीत्यर्थः । शिवे-शोभने । उत-अनन्तरम् ॥ ४ ॥


  1. एतदनन्तरम्-'उमापतेर्वचश्श्रुत्वा गङ्गा क्रोधसमन्विता' इत्यधिकं-ङ. झ.