पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
328
[बालकाण्डः
भगीरथतपः

 उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।
 प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षरम् ॥ २१ ॥
 मनोरथो महानेषः भगीरथ महारथ !
 एवं भवतु, भद्रं ते, इक्ष्वाकुकुलवर्धन ! ॥ २२ ॥

 मनोरथ इति । तावक इति शेषः ॥ २२ ॥

 इयं हैमवती गङ्गा ज्येष्ठा हिमवतस्सुता ।
 तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ २३ ॥

 इयमिति भगवत्समीपे स्थितत्वान्निर्देशः ॥ २३ ॥

 गङ्गायाः पतनं राजन् ! पृथिवी न सहिष्यति ।
 तां वै धारयितुं वीर ! नान्यं पश्यामि शूलिनः ॥ २४ ॥

 कुतो हरनियोग इत्यतः-गङ्गाया इत्यादि ॥ २४ ॥

 तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।
 जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विचत्वारिंशः सर्गः


 गङ्गां चाभाष्येति । [१] राजानं यथाकालमनुगृहाणेत्युक्त्वेति यावत् । देवैः–आजानजैः । मरुद्गणाः-कर्मदेवाः । [२]मरु (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विचत्वारिंशः सर्गः


  1. वत्से राजानं-इति-ग. पुस्तके नास्ति
  2. रममानः-क.