पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२ सर्गः]
327
तद्वंश्योऽथ तपस्तेपे गङ्गां प्राप्तुं भगीरथः

 सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ १४ ॥

 प्रजानां पतिरिति स्वापत्यत्वादेव । ईश्वर इति अनन्यसामान्यतया सर्वसंसारपञ्चकृत्य प्रवर्तकत्वात् ॥ १४ ॥

 ततस्सुरगणैस्सार्धं उपागम्य पितामहः ।
 भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १५ ॥
 भगीरथ महाभाग ! प्रीतस्तेऽहं जनेश्वर !
 तपसा च सुतप्तेन वरं वरय सुव्रत ! ॥ १६ ॥
 तमुवाच महातेजाः सर्वलोकपितामहम् ।
 भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १७ ॥
 यदि मे भगवन् ! प्रीतो यद्यस्ति तपसः फलम् ।
 सगरस्यात्मजास्सर्वे मत्तस्सलिलमाप्नुयुः ॥ १८॥

 यदि प्रीतः, यद्यस्ति इति वादो दुःखातिशयात् ॥ १८ ॥

 गङ्गायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
 स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १९ ॥

 मत्तस्सलिलमाप्नुयुरिति-कीदृशमित्यपेक्षायां-गङ्गाया इत्यादि । एषां भस्मनि गङ्गायास्सलिलक्लिन्न एव स्वर्गं गच्छेयुः, नान्यथा; तथा गरुत्मद्वचनात् । अतस्तादृशं सलिलं मत्तः आप्नुयुः ॥ १९ ॥

 देया च सन्ततिर्देव ! नावसीदेत् कुलं च नः ।
 इक्ष्वाकूनां कुले देव ! एष मेऽस्तु वरः परः ॥ २० ॥

 इक्ष्वाकूनां कुल इति । उत्पन्नस्य मम इति शेषः । परो वर इति । द्वितीयो वर इत्यर्थः ॥ २० ॥