पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
326
[बालकाण्डः
भगीरथतपः

 इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा
 राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १० ॥

 ननु राज्ये पुत्रं भगीरथमभिषिच्य इन्द्रलोकं दिलीपो गतवानिति इहोच्यते । कालिदासस्तु दिलीपपुत्रं रघुमाह । किमिह प्रमाणम् ? उभयमपि प्रमाणम् । भगीरथपुत्रकदिलीपादन्य एव तद्वंश्यो रघुपुत्रकदिलीप इति ॥ १० ॥

 भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन !
 अनपत्यो महातेजाः प्रजाकामः सचाप्रजः ॥ ११ ॥

 अनपत्य इत्यादि व्याकृतचरः ॥ ११ ॥

 मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ।
 स तपो दीर्घमातिष्ठत् गोकर्णे रघुनन्दन ! ॥ १२ ॥

 गोकर्णः-हैमवतपादविशेष एव । तपस उत्तरत्रैव गन्तव्यत्वात् ॥

 ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ।
 तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ १३ ॥
 अतीतानि महाबाहो ! तस्य राज्ञो महात्मनः ।

 पञ्चाग्निमध्ये तपो यस्य सः पञ्चतपाः । मासस्य सकृदाहारो यस्य सः मासाहारः। उभावपि मध्यमपदलोपिसमासौ । परः पृषोदरादित्वात्साधुत्वमित्याह । तदसत्-यत्र वर्णविकारलोपादेशादि श्मशानबलाहकादिवत्, तत्रैव तेन साधुताया वक्तव्यत्वात् । काकदन्तपरीक्षां करिष्यामीति शाब्दिकत्वमत्या बहुस्थले मृषाप्राप्तीर्वदति । तत्सर्वं मदुच्यमानरीतिदृक्शाब्दिकशिरोमणीनाममत्सराणां सुदर्शमित्यर्थवादाः अशक्यगणनातो नानूद्यन्ते । तदप्युच्यमानरीतितः पदवाक्यसाहित्य-निष्णातसूरिदर्शनम् ॥ १३ ॥