पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२ सर्गः]
325
उपायं नाध्यगच्छंस्ते गङ्गां प्राप्तुं सुरापगाम्

 स राजा सुमहानासीदंशुमान् रघुनन्दन !
 तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ २ ॥
 तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन !
 हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ ३ ॥

 तपस्तेप इति । तपःकर्मकतपेः कर्मवद्भावात् सर्वत्रात्मनेपदमित्युक्तमेव । पितॄणां गतय इति शेषः ॥ ३ ॥

 द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।
 तपोवनं गतो राम ! स्वर्गं लेभे तपोधनः ॥ ४ ॥
 दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।
 दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥

 पैतामहं वधमिति । स्वपितामहानां सागराणामपमृत्युमित्यर्थः ॥

 कथं गङ्गावतरणं कथं तेषां जलक्रिया ।
 तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥ ६ ॥

 निश्चयानधिगतिरेवामिनीयते-कथमित्यादि ॥ ६ ॥

 तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।
 पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ ७ ॥
 दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।
 त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥
 अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति
 व्याधिना नरशार्दूल ! कालधर्ममुपेयिवान् ॥ ९ ॥

 व्याधिनेति । पितॄणामुद्धरणालाभजदुःखजेनेति शेषः ॥ ९ ॥