पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
324
[बालकाण्डः
भगीरथतपः

 तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ।
 यज्ञं निर्वतयामास यथाकल्पं यथाविधि ॥ २४ ॥
 स्वपुरं चागमच्छ्रीमान् इष्टयज्ञो महीपतिः ।
 गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ २५ ॥

 इष्टः यज्ञः यस्येति बहुव्रीहिः । आगम इति । भूमावागम-इत्यर्थः । निश्चयं-उपायनिश्चयं । अध्यगच्छतेति तङ् व्यत्ययात् ॥

 अकृत्वा निश्चयं राजा कालेन महता महान् ।
 त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकचत्वारिंशः सर्गः

 [१]चारु (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकचत्वारिंशः सर्गः

अथ द्विचत्वारिंशः सर्गः
[भगीरथतपः]

 कालधर्मं गते, राम ! सगरे प्रकृतीजनाः ।
 राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥

 अथ गङ्गायास्त्रिपथगमनहेतुप्रकार एव प्रस्तुतः प्रतिपाद्यते- कालधर्ममित्यादि । संसारिमात्रस्य कालेनावश्यंभावी धर्मः कालधर्मः, मरणामिति यावत् । प्रकृतीजनाः इति छान्दसो दीर्घः । प्रकृतिजनः अमात्यवर्गः । "प्रकृतिस्सहजे योनावमात्ये परमात्मानि " । राजानं रोचयामासुरिति । न्यायप्राप्तत्वादेव ॥ १ ॥


  1. रतमानः - क.