पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१ सर्गः]
323
गङ्गासलिलसेकेन प्राप्नुयुः सद्गतिं त्विति

 कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
 सलिलं नार्हसि प्राज्ञ ! दातुमेषां हि लौकिकम् ॥ १८ ॥

 हि यस्मात् अप्रमेयेन-महात्मना कपिलेन दग्धाः अत एव लौकिकं सलिलं दातुं नार्हसि । 'चाण्डालादुदकात् सर्पाद्वैद्युतात् ब्राह्मणादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च प्रेतेभ्यो यद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥” इति स्मृतेरित्याशयः । प्रकृते ब्राह्मणाद्वधः ॥ १८ ॥

 गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ !
 तस्यां कुरु महाबाहो ! पितॄणां तु जलक्रियाम् ॥ १९ ॥
 भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
 तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ॥ २० ॥
 [१]षष्टिं पुत्रसहस्त्राणि स्वर्गलोकं नयिष्यति ।

 [२]गङ्गायां जलक्रियां कुर्वित्युक्ते-तर्हि देवलोकगत्या गङ्गयोदकक्रिया कार्येति शङ्कायामाह-भस्मेत्यादि । यदा प्लावयेत्तदा क्लिन्नमिति योजना । नयिष्यति । गङ्गोदकसेकरूपसंस्कारेणेति शेषः ॥ २० ॥

 गच्छ चाश्वं महाभाग ! सङ्गृह्य पुरुषर्षभ !
 यज्ञं पैतामहं वीर ! निर्वर्तयितुमर्हसि ॥ २१ ॥
 सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।
 त्वरितं हयमादाय पुनरायान्महायशाः ॥ २२ ॥
 ततो राजानमासाद्य दीक्षितं रघुनन्दन !
 न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥ २३ ॥
 यथावृत्तमिति । पितृव्यविषयकमिति शेषः ॥ २३ ॥


  1. एतदन्तरं-गङ्गामानय, भद्रं ते, देवलोकात् महीतलम् । क्रियतां यदि शक्तोऽसि गङ्गायास्त्ववतारणम् ॥इत्यधिकम्-ङ.
  2. गङ्गया इति स्यात् .