पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१ सर्गः]
321
तान् मार्गयन्तं गरुडस्त्वंशुमन्तमथाब्रवीत्

 सुखातं पितृभिर्मार्गं अन्तर्भौमं महात्मभिः ।
 प्रापद्यत नरश्रेष्ठः तेन राज्ञाऽभिचोदितः ॥ ६ ॥

 महात्मभिः पितृभिः भूमेरन्तः सुखातं भौममेव मार्गं तद्वृ त्तान्तपरिज्ञानाय प्रापद्यत ॥ ६ ॥

 दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।
 पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७ ॥
 स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
 पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ ८ ॥

 परिपप्रच्छेति । 'क्व आसत इति' इति शेषः ॥ ८ ॥

 दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।
 आसमञ्ज ! कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥

 आसमञ्ज-असमञ्जसुत ! इञभाव आर्षः शीघ्रमेष्यसीति । स्ययमेवान्वेषणादिति शेषः ॥ ९ ॥

 तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
 यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥
 तैश्च सर्वेर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
 पूजितः सहयश्चैव गन्ताऽसीत्यभिचोदितः ॥ ११ ॥

 वाक्यज्ञैः–वक्तुमर्हं–वाक्यम् । ॠहलोर्ण्यत्' । चजोः कु' इति कुत्वम् । वाक्यकोविदैः । तयोरेव भावे कृत्यः, कालदेशादिवक्तव्यतत्त्वज्ञैः । तदुचितवचनसमर्थैश्चेत्यर्थः । तदुचितवचनं च–स्वयमेवान्विष्येत्यस्मदुक्तरूपम् ॥ ११ ॥