ते तु सर्वे महात्मानो भीमवेगा महाबलाः ॥ २४ ॥
ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २५ ॥
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन !
ते तं [१]यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ २६ ॥
खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।
अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठेति चाब्रुवन् ॥ २७ ॥
ते तमिति । तं-कपिलमेव यज्ञहनं-यज्ञं हन्तीति, पचाद्यच्, अविचारतस्तमेवाश्वापहारद्वारा यज्ञहन्तारं ज्ञात्वा इत्यर्थः ॥ २७ ॥
अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।
दुर्मेधः ! त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् ॥ २८ ॥
श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन !
रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा ॥ २९ ॥
ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
भस्मराशीकृताः सर्वे, काकुत्स्थ ! सगरात्मजाः ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चत्वारिंशः सर्गः
नीड (३०) मानः सर्गः ॥ ३० ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चत्वारिंशः सर्गः
- ↑ हयहरं ज्ञात्वा, यशज्ञरं ज्ञात्वा-ङ.