पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
317
ददृशुस्तत्र तेऽश्वं तं, कपिलस्य समीपतः

 ते अस्मासु भद्रं-अनुग्रहबुद्धिरस्तु । वयं किं करिष्यामः, सलोपश्छान्दसः ॥ ८ ॥

 तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ ९ ॥
 समन्युरनवीद्वाक्यं सगरो रघुनन्दन !
 भूयः खनत, भद्रं वः, निर्भिद्य वसुधातलम् ॥ १० ॥
 अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।

 भूयो निर्भिद्येति योजना। निवर्तथ–व्यत्ययात् परस्मैपदम्-निवर्तध्वम् ॥ १० ॥

 पितुर्वचनमासाद्य सगरस्य महात्मनः ॥ ११ ॥
 षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।
 खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ॥ १२ ॥
 दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।

 खन्यमाने इति । षष्टियोजनसहस्रात्परमपीति शेषः । दिशागजमिति । वाचानिशादिशब्दानां हलन्तानामप्यजादिगणपाठतष्टाप् ॥

 सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ! ॥ १३ ॥
 शिरसा धारयामास विरूपाक्षो महागजः ।

 कृत्स्नामिति । तद्दिक्प्रदेशावच्छिन्नामिति शेषः ॥ १३ ॥

 यदा पर्वणि काकुत्स्थ ! विश्रमार्थं महागजः ॥ १४ ॥
 खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ।

 यदा पर्वणि-यस्मिन् काले । “तिथिभेदे क्षणे पर्व" इति निघण्टुः ॥ १४ ॥