पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
316
[बालकाण्डः
सगरपुत्राणां भस्मीभावः

 तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।
 पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ॥ ३ ॥
 सगरस्य च पुत्राणां विनाशो [१]दीर्घदर्शिनाम् ।

 पृथिव्या निर्भेदश्च सनातनः-प्रतिकल्पमवश्यंभावी, श्रौतस्मार्त- सागरादिशब्दैवा[२]दृष्ट एव । अत एव यथाप्राप्तार्थ इति न तत्र शोकः कार्य इति शेषः । दीर्घदर्शिनां अस्माकं सगरस्य पुत्राणां विनाशस्तु द्रष्टव्य एव । अतः सोऽपि भविष्यति । अतो न शोकः कार्य इत्यर्थः ॥ ४ ॥

 पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम ! ॥ ४ ॥
 देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।
 सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ ५ ॥
 पृथिव्यायां भिद्यमानायां निर्घातसमनिस्वनः ।

 प्रकृतकार्यप्रवृत्तिः– सगरस्येत्यादि । ५-६ ॥

 ततो भित्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् ॥ ६॥
 सहिताः सागरास्सर्वे पितरं वाक्यमब्रुवन् ।

 सहिताः-एकत्र संहताः ॥ ७ ॥

 परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ॥ ७ ॥
 देवदानवरक्षांसि पिशाचोरगकिन्नराः ।
 न च पश्यामहेऽश्व तमश्वहर्तारमेव च ॥ ८ ॥
 किं करिष्याम, भद्रं ते, बुद्धिरत्र विचार्यताम् ।


  1. इष्ट एव-घ.
  2. अदीर्घजीविनाम्-ज. झ.