पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
314
[बालकाण्डः
सगरपुत्रैः पृथिवीविदारणम्

 शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
 भिद्यमाना वसुमती ननाद रघुनन्दन ! ॥ १८ ॥

 भिद्यमानेति । सर्वत इति शेषः । वसुमतीति । तद्वर्तिसर्वस्रोतांसीति यावत् ॥ १८ ॥

 नागानां वध्यमानानां असुराणां च राघव !
 राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥ १९ ॥
 योजनानां सहस्राणि षष्टिं तु रघुनन्दन !
 बिभिदुर्धरणीं वीक्ष्य रसातलमनुत्तमम् ॥ २० ॥

 योजनानामित्यादि । पितृनियुक्तमार्गेण सर्वां सन्दिग्धां खननोपेतां विचित्य पृथिव्यधोभागं रसातलमेव विचेतुं धरणीं एकैकत: योजनानां सहस्राणि षष्टिं तु बिभिदुः ॥ २० ॥

 एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः ।
 खनन्तो नरशार्दूल ! सर्वतः परिचक्रमुः ॥ २१ ॥

 पर्वतैस्सम्बाधः-नैबिढ्यं-यस्य तत्तथा ॥ २१ ॥

 ततो देवास्सगन्धर्वाः सासुरास्सहपन्नगाः ।
 सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २२ ॥
 ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
 उचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २३ ॥
 भगवन् ! पृथिवी सर्वा खन्यते सगरात्मजैः ।
 बहवश्च महात्मनो हन्यन्ते तलवासिनः ॥ २४ ॥

 तलवासिनो महात्मान इति । कपिलवद्रसातलवासिनो महात्मानः सिद्धगन्धर्वादयः इत्यर्थः ॥ २४ ॥