पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ सर्गः]
313
ते विचिक्युर्महीं कृत्स्नां सपर्वतवनार्णवाम्

 तत्-तस्मात् गच्छतेत्यादि । अनुगच्छत । अन्विष्यध्वमिति यावत् ॥ १३ ॥

 यावत्तुरगसन्दर्शः तावत् खनत मेदिनीम् ।
 तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १४ ॥

 भूमेरुपर्यन्वेषणे[१] न लब्धं चेत्तदा-यावत्तुरगेत्यादि ॥ १४ ॥

 दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।
 इह स्थास्यामि, भद्रं वः, यावत्तरगदर्शनम् ॥ १५ ॥

 स्वस्य तुरगानुगमनमयुक्तमित्याह-दीक्षित इत्यादि । यस्माद्दीक्षितः, तस्मात् 'गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितम्' इत्यादिना 'न प्रवस्तव्यम्' इति निषेधात् अहमिह स्थास्यामि, पौत्रस्य [२]बालत्वतः तत्सहित एव तिष्ठामि ॥ १५ ॥

 इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।
 [३]जग्मुर्महीतलं राम ! पितुर्वचनयन्त्रिताः ॥ १६ ॥

 यन्त्रिताः-नियुक्ताः ॥ १६ ॥

 योजनायामविस्तारमैकैको धरणीतलम् ।
 बिभिदुः पुरुषव्याघ्र ! वज्रस्पर्शसमैर्नखैः ॥ १७ ॥

 आयामः-दैर्ध्यं । विस्तारः-विशालता च । एकैको धरणीतलं सर्वमपि सस्नेहात्-समुदं बिभिदुरित्यर्थः ॥ १७ ॥


  1. यदि न लब्धं-घ.
  2. बालकत्वात् -ग.
  3. एतदनन्तरं-गत्वा तु पृथिवीं सर्वा,अदृष्ट्वा तं महाबलाः । इत्यधिकम्-ङ