तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥ ७ ॥
पर्वणि-[१]उक्थ्याह । तं यज्ञामति । विहन्तुमिति शेषः । यज्ञियः-यज्ञार्हश्वासावश्वस्तथा । 'यज्ञर्त्विग्भ्याम्' इति घः ॥ ७ ॥
हियमाणे तु काकुत्स्थ ! तस्मिन्नश्वे महात्मनः ।
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ॥ ८ ॥
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ।
हर्तारं जहि काकुत्स्थ ! हयश्चैवोपनीयताम् ॥ ९ ॥
यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ।
तत्तथा क्रियतां राजन् ! यथाऽच्छिद्रः क्रतुर्भवेत् ॥ १० ॥
अच्छिद्र इति पदम् ॥ १० ॥
उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ।
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥ ११ ॥
गतिं पुत्राः ! न पश्यामि रक्षसां पुरुषर्षभाः ।
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥ १२ ॥
हे पुत्राः ! हि-यस्मात् महाक्रतुः मन्त्रपूतैर्महाभागैरास्थितः-अधिष्ठितः तस्मात्तस्यास्य रक्षसां मायया यदि छिद्रं स्यात्तदाऽस्माकं गतिं न पश्यामि । तथा तैर्महाभागैरुक्तं 'यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः' इति ॥ १२ ॥
तद्गच्छत विचिन्वध्वं पुत्रकाः ! भद्रमस्तु वः ।
[२]समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ॥ १३ ॥