पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
315
अन्विष्यन्तस्ततस्सर्वे रसातलमभिद्रवन्

 अयं यज्ञहरोऽस्माकं अनेनाश्वोऽपनीयते ।
 इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः

 अपनीयते-अपनीयते स्म इति तत्प्रसङ्गरहितानि सर्वभूतानि राजवदविचार्यैव घ्नन्तीत्यर्थः । माद्री (२५) मानः तर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनचत्वारिंशः सर्गः


अथ चत्वारिंशः सर्गः
[सगरपुत्राणां भस्मीभावः]

 देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।
 प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥ १ ॥

 एवं भगवता त्रस्तपुत्रत्राणोपदेशपूर्वकं पुनश्च प्रकृतप्रवृत्युपदेशः । देवतानामित्यादि । कृतान्तति । कृत अन्तः– प्रागुक्तरीत्या सर्वलोक-नाशः यैस्तानि तथा, तानीमानि सगरसुतबलानि तथा, तैर्मोहिताः-मूर्च्छितचित्तास्तथा ॥ १ ॥

 यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
 [१]कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥

 कृत्स्नाऽपीयं वसुधा यस्येति । जलभूमयविराजो भूप्रधानमूर्तित्वाद्वासुदेवस्य भूमेः असाधारणस्वत्वम् । धारयतीति । योगबलनेति शेषः ॥ २ ॥


  1. एतदनन्तरं-महिषी माधवस्यैषा स एष भगवान् प्रभुः । इत्यधिकम्-ङ