पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ सर्गः]
311
स पुत्रान् सन्दिदेशाथ तस्याश्वस्य गवेषणे

 इमामिति । [१] यज्ञोपार्जनकथामित्यर्थः । ननु कस्ते इह आदरातिशय इत्यतः-पूर्वक इत्यादि । मद्वंशकूटस्थ इत्यर्थः ॥ २ ॥

 विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ।
 श्रूयतां विस्तरो राम ! सगरस्य महात्मनः ॥ ३ ॥

 स्ववंश्य इति कृत्वा रामस्य च लोकवत् स्नेहः सम्पन्न इति प्रहासः । इव शब्द एवार्थे । प्रसन्नो भूत्वैवेति यावत् । कथामध्ये पुनः कथान्तरप्रश्ने शाखाचङ्क्रमजकोपमकृत्वैवेत्यर्थः । विस्तर इति । यज्ञस्येति शेषः ॥ ३ ॥

 शङ्करश्वशुरो राम ! हिमवानचलोत्तमः ।
 विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥ ४ ॥

 विन्ध्यपर्वतमासाद्य-मध्ये महापर्वतनिरोधाभावात् प्राप्य, तथा विन्ध्योऽपि हिमवन्तमित्येवं परस्परमासाद्य प्रागुक्तवीक्षानिरोधाभावादेव निरीक्षेते-अन्योन्यदर्शनं सख्यप्रयुक्तमनुभवतः ॥ ४ ॥

 तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम !
 स हि देशो नरव्याघ्र ! प्रशस्तो यज्ञकर्मणि ॥ ५॥

 किं तत इत्यतः-तयोरित्यादि । स हि प्रशस्त इति । 'आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः' इति वचनात् । प्रशस्तः-प्रसिद्ध इत्यर्थः ॥ ५ ॥

 तस्याश्वचर्यां काकुत्स्थ ! दृढधन्वा महारथः ।
 अंशुमानकरोत्तात ! सगरस्य मते स्थितः ॥ ६ ॥

 चर्या-रक्षा । दृढधन्वा-'धनुषश्च' इत्यनङ् । मते-शासने ॥


  1. यज्ञोपसर्जन-ग.