पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
310
[बालकाण्डः
सगरपुत्रैः पृथिवीविदारणम्

 तस्य असमञ्जस्य अंशुमान् प्रियंवदत्वादिगुणयुक्तत्वात् पितामहस्य-सगरस्य समीपे स्थितः ॥ २२ ॥

 ततः कालेन महता मतिस्समभिजायत ॥ २३ ॥
 सगरस्य नरश्रेष्ठ ! यजेयमिति निश्चिता ।
 स कृत्वा निश्चयं राम ! सोपाध्यायगणस्तदा ॥ २४ ॥
 यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टात्रिंशः सर्गः

 [१]मार (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टात्रिंशः सर्गः


अथ एकोनचत्वारिंशः सर्गः
[ सगरपुत्रैः पृथिवीविदारणम् ]

 विश्वामित्रवचः श्रुत्वा कथाऽन्ते रघुनन्दनः ।
 उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १ ॥

एवं यज्ञोपक्रमणश्रवणे सति तस्य सार्वभौमस्वपूर्वकर्तृकत्वात् तत्सिद्धिविस्तारशुश्रूषया रामप्रश्ने तत्प्रतिपादनं । विश्वामित्रेत्यादि । कथान्ते-यज्ञोपक्रम[२]कथनानन्तरम् ॥ १ ॥

 श्रोतुमिच्छामि, भद्रं ते, विस्तरेण कथामिमाम् ।
 [३]पूर्वको मे कथं ब्रह्मन् ! यज्ञं वै समुपाहरत् ॥ २ ॥


  1. सर्वेषु कोशेषु सार्धचतुर्विंशतिश्लोका एव दृश्यन्ते । परन्तु पञ्चत्रिंशसर्गे एकमर्धमधिकं दृश्यते । तदत्र परिगणितं स्याद्वा ॥
  2. कथानन्तरम्-ग.
  3. एतदनन्तरं-तस्य तद्वचनं श्रुत्वा कौतूहलसमन्वितः-ङ.