पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ सर्गः]
309
स इयाज, जहाराश्वं यज्ञियं तस्य वासवः

 सुमतिस्तु नरव्याघ्र ! गर्भतुम्बं व्यजायत ।
 षष्टिः पुत्राः सहस्राणि तुम्बभेदाद्विनिस्सृताः ॥ १७ ॥

 गर्भतुम्भं-गर्भावरणकोशस्तुम्बम् । तुम्बमिति । जालगर्भयुक्ततुम्बानि व्यजायतेति यावत् । कथं तप्तः पुत्रोदय इत्यतः-षष्टिरित्यादि । तुम्बभेदादिति । न तु गान्धार्या इव पश्चाद्विभजनीया इत्यर्थः ॥ १७ ॥

 घृतपूर्णेषु कुम्भेषु धात्रयस्तान् समवर्धयन् ।
 कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १८ ॥

 तान्-वियुक्ततुम्बान् ॥ १८ ॥

 अथ दीर्घेण कालेन रूपयौवनशालिनः ।
 षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १९ ॥
 स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसम्भवः ।
 बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ! ॥ २० ॥
 प्रक्षिप्य ग्राहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ।

 ज्येष्ठस्तु असमञ्जः बालान् जले प्रक्षित्य मज्जतस्तान् समीक्ष्य प्राहसत्-प्रहासं कृत्वा स्थितवानिति यावत् ॥ २० ॥

 एवं पापसमाचारः सज्जनप्रतिबाधकः ॥ २१ ॥
 पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।

 जनानां प्रतिबाधको जनप्रतिबाधकः । निर्वासितः-निष्कासितः ॥

 तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २२ ॥
 संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।