एकः कस्य सुतो ब्रह्मन् ! का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् ! सत्यमस्तु वचस्तव ॥ १० ॥
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ ११ ॥
स्वच्छन्दोऽत्रेति । अत्र-उक्तयुष्मत्प्रश्नविषये स्वच्छन्द एव-युष्मदिच्छैव, न तु मया अस्या एकः, अस्य बहव इति निर्णेतव्यं; अत एकोऽस्तु वा बहवो वा सन्तु, यस्यै कस्यै वा । अतः का, कं वरमिच्छामीति भवतीभ्यामेव विधीयतां-नियमः क्रियताम् ॥ ११ ॥
एको वंशकरो वाऽस्तु बहवो वा महाबलाः !
कीर्तिमन्तो महोत्साहाः, का वा कं वरमिच्छति ॥ १२ ॥
वंशकरः-कृञन्तो हेतौ, वंशवृद्धिहेतुत्वगुणोऽत्र वर्णितः ॥ १२ ॥
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन !
पुत्रं वंशकरं राम ! जग्राह नृपसन्निधौ ॥ १३ ॥
नृपसन्निधावित्यनेन तस्यापि साक्षित्वमात्रं, तस्याप्येकानेक- वरणनियमाकर्तृतेत्यावेदितम् ॥ १३ ॥
षष्टिं पुत्र सहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥
सुपर्णो गरुडः ॥ १४ ॥
प्रदक्षिणमृषिं कृत्वा शिरसाऽभिप्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ! ॥ १५ ॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥
व्यजायत-प्रसूतवती ॥ १६ ॥