पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ सर्गः]
307
पूर्वमासीदयोध्यायां सगरो नाम भूमिपः

 वैदर्भदुहिता ! राम ! केशिनी नाम नामतः ।
 ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥

 विदर्भाधिपतेरपत्यं । 'जनपदशब्दात् क्षत्रियादञ्' इत्यञ् ॥ ३॥

 अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
 द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥ ४ ॥

 अरिष्टनेमिः-काश्यपः, तस्य दुहिता तथा । 'सुपर्णभगिनी' इत्यारात्प्रयोगात् अरिष्टनेमिः काश्यपः ॥ ४

 ताभ्यां सह तथा राजपत्निभ्यां तप्तवांस्तपः ।
 हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ ५ ॥

 भृग्वधिष्ठितं प्रस्रवणं-प्रवाहः यस्मिन् स तथा । गिरौ-हिमवतः पादपर्वत इति यावत् ॥ ५ ॥

 अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः ।
 सगराय वरं प्रादात् भृगुः सत्यवतां वरः ॥ ६ ॥
 अपत्यलाभः सुमहान् भविष्यति तवानघ !
 कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ! ॥ ७ ॥
 एका जनयिता तात ! पुत्रं वंशकरं तव ।
 षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ ८ ॥

 तातेति उपलालने । जनयितेति लुट् । षष्टिमिति । निपातना- देकवचनान्तस्य सहस्राणीत्यनेन सामानाधिकरण्यम् ॥ ८ ॥

 भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
 ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥

 भाषमाणमिति । राजपुत्र्याविति छत्रिन्यायेन वादः ॥ ९ ॥