पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ सर्गः]
303
ववृधे षण्मुखो भूत्वा कृत्तिकानां पयः पिबन्

जम्बूनद्यां भवं जाम्बूनदं-दशवर्णसुवर्णं । जाम्बूनदं-द्रुतजाम्बूनदवर्णं सुवर्णं काञ्चनं प्रथमं अभवत् । पश्चात् अमलं निर्मलं, अत एव शुभदक्षिणालङ्काराद्यर्हं हिरण्यं चाभवत् । रजतं हिरण्यमभवत्' इति श्रुतेर्हिरण्यशब्दः स्वर्णरजतसाधारणः । इदमुभयं क्रमात् शुद्धपारदगन्धप्राधान्यात् भवति । पारदे तैक्ष्ण्यैकरूपं मलमस्ति । गन्धे मालिन्यरूपं मलमस्ति । उभयमलमुक्तादग्निबन्धरसात् द्रुतप्राधान्यवेधे स्वर्णं, गन्धप्राधान्यवेधे रजतं, तीक्ष्णमलप्राधान्यवेधे तु ताम्रादिकं मालिन्यं, मलप्राधान्यवेषे तु त्रपुसीसन् । तदेवोक्तम्-ताम्रमित्यादि । तत्र बन्धरसेऽपि यन्मूलं द्रुत्यादिसंस्कारवैकल्यादशोधितमभूत् तस्याभि-सम्बन्धात् त्रप्वादिकमभवदिति योजना । नानाधातुरवर्धतेति । उक्तरीत्येति शेषः ॥ १९-२० ॥

 निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
 सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ॥ २१ ॥

 न केवलं तस्य स्पर्शवेधित्वं, अपि तु रूपवेधित्वमपीत्युच्यते- निक्षिप्तेत्यादि । पर्वतसन्नद्धं-स्वर्णपर्वतीभूतमहारससम्बद्धमिति यावत् ॥

 तं देशं तु ततो ब्रह्मा संप्राप्यैनमभाषत ।
 जातस्य रूपं यत्तस्मात् जातरूपं भविष्यति ॥ २२ ॥
 जातरूपमिति ख्यातं तदाप्रभृति राघव !
 सुवर्णं पुरुषव्याघ्र ! हुताशनसमप्रभम् ॥ २३ ॥
 [ तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ]

 यदा काञ्चनीभूतो महारसो रूपवेधी जातस्तदाप्रभृति जातरूपमित्यपि ख्यातम् । जातं सौवर्णं रूपं यस्मात्, स्वासन्नस्य च तत्तथा ॥ २२-२३ ॥