पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
[बालकाण्डः
कुमारसम्भवः

 तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।
 अशक्ता धारणे देव ! तव तेजः समुद्धतम् ।
 दह्यमानाऽग्निना तेन संप्रव्यथितचेतना ॥ १६ ॥

 सर्वदेवपुरोहितं—सर्वदेवानां पुरोयायी, हितकरश्च तथा ।'अग्निमीळे पुरोहितं' अग्निर्ब्रह्मा नृषदने विधत्ते' इत्यादेः बृहस्पत्यपरमूर्तिमानित्यर्थः । तव तेजस्समुद्धतं- अग्नेरनुप्रवेशादाग्नेयेन तेजसा च समुद्धतं अत्युग्रशक्त्यैश्वरं तेजः-तेजस इति यावत् । कृद्योग-लक्षणषष्ठ्यभावश्छान्दसः । धारणे शक्ता न भवामि । अपि च -दह्यमानेत्यादि ॥ १६ ॥

 अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।
 इह हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ॥ १७ ॥

 सर्वदेवात्मको हुताशनस्तथा ॥ १७ ॥

 श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।
 उत्ससर्ज महातेजः स्रोतोभ्यो हि तदाऽनघ ! ॥ १८ ॥

 स्रोतोभ्यः उत्कृष्य हिमवत्पार्श्व उत्ससर्जेति योजना ॥ १८ ॥

 यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ।
 काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ १९ ॥
 ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।
 मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
 तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २० ॥

 यत्-यस्मात् अस्याः निर्गतं, तस्मात् गङ्गागर्भनिस्सृतिसिद्धवेधसंस्कार- वैभवादेव तत्तेजः धरणीं प्राप्तं सत् तप्तजाम्बूनदप्रभं-