ते गत्वा पर्वतं राम ! कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ॥ १० ॥
ते कैलासं पर्वतं गत्वेति । तत्रैव भगवत्तेजोऽनुप्रविष्टाग्नेरवस्थानात् ॥
देवकार्यमिदं देव ! संविधत्स्व हुताशन !
शैलपुत्र्यां महातेजः ! गङ्गायां तेज उत्सृज ॥ १२ ॥
हे महातेज इति सम्बुद्धिः । शैलपुत्र्यां तेज उत्सृजेति । गङ्गायामैश्वरं तेज इत्यर्थः ॥ १२ ॥
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि ! देवतानामिदं प्रियम् ॥ १३॥
देवतानां प्रतिज्ञायेति । तथा करोमीति प्रतिज्ञायेत्यर्थः ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
दृष्ट्वा तन्महिमानं स समन्तादवशीर्यत ॥ १४ ॥
दिव्यं रूपमधारयदिति । स्रोतोरूपं मुक्त्वेति शेषः । अथ तस्या महिमानं दिव्यरूपत्रैभवं दृष्ट्वा सः-ईश्वरतेजोराशिः पारदः समन्तादवशीर्यत, व्यत्ययात्तङ् । न द्रुतिसंस्कारं प्राप्तमभूदित्यर्थः । उत्तमस्त्रीदर्शने रसेश्वरस्य तद्ग्रहणयोल्लालनं द्वियोजनपर्यन्तमिति सुप्रसिद्धम् ॥ १४ ॥
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१५॥
एवं समन्ततो विकीर्णेन रसेश्वरेण पावको देवीमभ्यषिञ्चत । तेनाभिषिच्यमानेन रसेश्वरेण देवीसुषुम्नेलापिङ्गलादिनाडीरूपाणि सर्वस्रोतांसि पूर्णानि-व्याप्तानि ॥ १५ ॥