पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
300
[बालकाण्डः
कुमारसम्भवः

 शैलपुत्र्या यदुक्तं [१]तत् अप्रजाः सन्तु पत्नयः
 तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ ६ ॥

 यत्-यस्मात् शैलपुत्र्या अप्रजा भविष्यथेति उक्तं, तत्-तस्मात्-न प्रजास्सन्तु वः । अत एव वः पत्नयश्च अप्रजाः, छान्दस इकारान्तप्रयुक्तो जसो गुणः । ननु भवद्बलात् तद्वचोऽप्यन्यथायितव्यमित्याशङ्क्योच्यते-तस्या इत्यादि । अक्लिष्टमिति । परमापराधमूलतोऽन्यायतः प्राप्तं यतस्तस्मात् सत्यमेव न संशयः । एवं पाङ्क्ते पाठे पाङ्कते च व्याख्याने स्थिते "न प्रजास्यथ" इति मृषोक्त्वा तद्व्याख्यानं चाह [२]कश्चित् ॥ ६ ॥

 इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।
 जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ७ ॥

 तर्हि का गतिरित्यपेक्षायामाह-इयमित्यादि । यस्यां जनयिष्यति सेयमस्तीति योजना ॥ ७ ॥

 ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।
 उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ८ ॥

 उचितं चेदमेत्रेत्याह-ज्येष्ठेत्यादि । मानयिष्यतीति । स्वकनिष्ठापत्यत्वात् स्वापत्यवादति शेषः ॥ ८ ॥

 तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन
 प्रणिपत्य सुरास्सर्वे पितामहमपूजयन् ॥ ९ ॥


  1. न प्रजाः सन्तु पत्निषु-ङ.
  2. महेश्वरतीर्थः.