अथ सप्तत्रिंशः सर्गः
[कुमारसम्भवः]
तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १ ॥
अथ यथाप्रतिज्ञमुक्तवैभवोपदेशः-तप्यमान इत्यादि । देवसेनाकार्यचिन्तामकृत्वेति शेषः । सेनापतिं-स्वसेनारक्षकम् ॥ १ ॥
ततोऽब्रुवन् सुरास्सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुरास्सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २ ॥
तत इति । उपगमनानन्तरमित्यर्थः ॥ २ ॥
[१]येन सेनापतिर्देव ! दत्तो भगवता पुरा ।
तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥
किमब्रुवन्नित्यतः-येनेत्यादि । येन भगवता-रुद्रेण सेनापतिः बीजात्मना दत्तः, स तूष्णीं तपस्तप्यते-अनुतिष्ठति। तपःकर्मकत्वाद्यगात्मनेपदकर्मवद्भावौ । स्मशब्दो वाक्यालङ्कारे ॥ ३ ॥
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ ! त्वं हि नः परमा गतिः ॥ ४ ॥
अनन्तरं-बीजमात्रं दत्त्वा तस्योपरमानन्तरं तस्य पुत्राकार-सम्पत्तये यत्-संविधेयं तत् संविधत्स्व ॥ ४ ॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन् मधुरैर्वाक्यैः त्रिदशानिदमब्रवीत् ॥ ५ ॥
सान्त्वयन् | इष्टकार्यालाभखिन्नानिति शेषः ॥ ५ ॥
- ↑ एतदनन्तरं-स न जातोऽद्य भगवन्नस्मद्वैरिनिबर्हणः । तत्पिता भगवान् शर्वो हिमवच्छिखरेऽद्य वै ॥ इत्यधिकं कचित्-ङ.