पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
298
[बालकाण्डः
ईश्वरं प्रति देवानां प्रार्थना

भहुभार्या भविष्यसि । पुत्रकृतां-औरसपुत्रकृतां न प्राप्यसीति । मद्वदिति शेषः । सुदुर्मेधे इति । 'नित्यमसिच् प्रजामेधयोः' इत्यसिच् ॥ २५ ॥

 तान् सर्वान् [१]पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
 गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २६ ॥

 तानित्यादि । पीडितान्-देवीशापात् दुःखितांस्तान् दृष्ट्वा, तस्य चाशक्यपरिहारत्वात्तद्दर्शनपरिहाराय तपश्चरणविषयकनियोगसम्पादनाय च ततो देशात् वरुणपालितां दिशं-पश्चिमदेशं प्रति गमनायोपचक्राम, छान्दसं परस्मैपदम् ॥ २६ ॥

 स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
 हिमवत्प्रभवे शुङ्गे सह देव्या महेश्वरः ॥ २७ ॥

 एवं हिमवतः पश्चिमप्रदेशं गत्वा तत्रापि तत्र गिरेरुत्तरपार्श्वे, तत्रापि हिमवद्भवे शृङ्ग एव देव्या सह तप आतिष्ठत् ॥ २७ ॥

 एष ते विस्तरो राम ! शैलपुत्र्या निवेदितः ।
 गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्त्रिंशः सर्गः

 उपसंहियते–एष त इत्यादि । शैलपुत्रधा विस्तरः-चरितविस्तारो निवेदितः। ' त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैस्समन्विता' इति प्रश्नोत्तरणीय्यस्य देवगर्भधारणरूपगङ्गाचरितस्योपदेशशेषतयेति शेषः । अथ [२]शेषप्रकृतप्रश्नोत्तरं वक्तुं प्रतिजानीते-गङ्गाया इत्यादि। प्रभवामिति । छान्दसो ह्रस्वः । ऐशतेजोधारणरूपं प्रभावमित्यर्थः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्त्रिंशः सर्गः


  1. व्रीडितान्-ड.
  2. शेषिप्रकृत-घ,