[१]अथ शैलसुता राम ! त्रिदशानिदमब्रवीत् ।
समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ २१ ॥
उमां च शिवं चैव पूजयामासुरित्युक्तम् । तदा उमादेवी पूजां नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह-अथ शैलेत्यादि ॥ २१ ॥
यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया ॥ २२ ॥
अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ।
किन्निमित्तः क्रोधः, कीदृशश्च तच्छाप इत्यतः-यस्मादित्यादि । यस्मात् मया ईश्वरादौरसपुत्रकाम्ययैव क्रियमाणा सङ्गतिर्निवारिता, तस्मात् हेतोः स्वेषु दारेषु औरसं अपत्यं नोत्पादयिष्यथ ॥ २२ ॥
[२]अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नयः ॥ २३ ॥
एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ।
अत एव–अद्यप्रभृतीत्यादि । मच्छापादेव पत्नयः इत्यादि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ २४ ॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं, सुदुर्मेधे ! मम पुत्रमनिच्छती ॥ २५ ॥
पृथिवीमपि शशापेत्यत्र हेतुः-मम पुत्रमनिच्छतीति । अविघ्नसम्भोगसुखं यथाकालं सम्प्राप्तनिजभर्तृतेजोगर्भभरणरूपं पूर्वं लोकवदौरसं पुत्रं मम ईप्सितं अनिच्छती-अननुकुर्वती, देवेप्सितं चान्याय्यमनुकुर्वती चासीरिति यतः, अतः अनेन हेतुना एकरूपा अपि त्वं