तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ २४ ॥
तं कुमारं तत इति । सुवर्णपर्वतात्मनाऽ[१]वस्थितात्तत एव महारसादानन्दकन्दादिरसशास्त्रोपदिश्यमानरीत्या शब्दवेधित्वसंस्कारे च सति तत्रोच्यमानखेचरदिव्यदेहोत्पत्तिमार्गेण शनैर्जातो यो रुद्रकुमारः तं कुमारं क्षीरसम्भावनार्थाय-क्षीरपानप्रयोजनसिद्धये, कृत्तिका इति, 'सुपां सुलुक्' इत्यादिना भिसस्तु जस्, कृत्तिकाभिः समयोजयन् ॥
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चितः ॥ २५ ॥
अथ ताः कृत्तिकाः अयमस्माकं सर्वासां पुत्रो भवतु इति कृतनिश्चयास्सत्यस्तादृशं उत्तमं समय-भावं स्तन्य[२]प्रवृद्धिहेतुभूतं पुत्रभावं कृत्वा जातमात्रस्य तस्य क्षीरं ददुः ॥ २५ ॥
ततस्तु देवतास्सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥ २६ ॥
ततः-अनन्तरं तत एव हेतोः सर्वा देवताः स्वयं कार्तिकेय इति ब्रुवन् अडभावः छान्दसः उक्तवन्तः । अपि चायं पुत्रः कार्तिकेय इति त्रैलोक्यविख्यातश्च भविष्यतीति अब्रुवन् ॥ २६ ॥
तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
स्नापयन् परया लक्ष्म्या दीप्यमानं यथाऽनलम् ॥ २७ ॥
अथ तेषां-देवानां म्वेष्टानुकूलं वचनं श्रुत्वा [३]आदौ ईश्वरयोस्सकाशात् स्कन्नं, पश्चात् गङ्गाया गर्भात् परिस्रवे सति तत्संस्कारतो