पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
293
तयोरूमां तु रुद्राय ददौ शैलवरः सुताम्

स्वेदबिन्दुमात्रजो रुद्रकुमारो वीरभद्रोऽशेषदेवैरपि दुस्सहो दुर्निरीक्ष्यश्चेत्यनुभवसिद्धम् । अतो माभूदम्माकमौरसरुद्रकुमारोत्पत्तिरिति निश्चित्य देव्यां तेजस्त्यागं निवारयितुं उद्युक्ता इत्यर्थः ॥ ८ ॥

 अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ ९ ॥

 एवं निश्चित्य तदमोकस्य चाचिन्त्यशक्तिवैभवभगवदेकसाध्यत्वात्तमेव तत्र परमं शरणं जम्मुरित्युच्यते-अभिगम्येति ॥ ९ ॥

 देव देव महादेव ! लोकस्यास्य हिते रत !
 सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ १० ॥

 प्रणिपातः–अनन्यगतिकतया तत्पादमूलपतनम्, तेन अस्माकं प्रसादं कर्तुमर्हसि ॥ १० ॥

 न लोका धारयिष्यन्ति तव तेजः सुरोत्तम !
 ब्राह्मण तपसा युक्तो देव्या सह तपश्चर ॥ ११ ॥

 किं विषयकः प्रसाद इत्यतः-न लोका इत्यादि । भूरादिलोकान्तर्लौकिकसकलप्रजाश्चेत्यर्थः । न धारयिष्यन्ति-अनन्तकोटि-वीरभद्रतुल्यं स्मृत्वा च हृदयविदारकं मनस्यपि धर्तुमपि न शक्नुयुः। तेज इति । मुक्त्वा यथावद्गर्भादुत्पन्नमिति शेषः । तर्हि किमस्माभिः कर्तव्यमित्यतः-ब्राह्मणेत्यादि । ब्राह्मेण-श्रीमदादिगुरुतुर्यब्रह्मगोचरेण तपसा अकृतकतदनन्यतायोगलक्षणेन युक्तो भूत्वा देव्या सह तदङ्गभूतं तप एव चर ॥ ११ ॥

 त्रैलोक्यहितकामार्थंं तेजस्तेजसि धारय ।
 रक्ष सर्वानिमान् लोकान्, नालोकं कर्तुमर्हसि ॥ १२ ॥

 कीदृशमुख्यब्राह्मतपोऽङ्गभूतमस्मच्चरितव्यमित्यतः तन्नियोगः- तेजस्तेजसि धारयेति । 'पुरुषो ह वा अयमादितो गर्भो भवति ।