पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
294
[बालकाण्डः
ईश्वरं प्रति देवानां प्रार्थना

यदेतत्तद्रेतस्त्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतमात्मन्येवात्मानं बिभर्ति' इति न्यायेन निजतेजः-पारदरूपं निजतेजसि-सहजाष्टाङ्गयोगरूपे धारय । ननु मत्तेजसि मया धृते मुक्ते वा को लाभः ? का हानिर्वा वः ? इत्यत्रोच्यते-रक्ष सर्वानिमान् लोकानिति । धृत्वेति शेषः । भवति किल धारणे लोकरक्षा, कथम् ? 'अथ यदेतत् पुरुषे रेतो भवत्यादित्यस्य तद्रूपम्' इति श्रुतेः सम्राट्पुरुषस्य ब्रह्मणो रेतोरूपं तेज एवादित्यमण्डलान्तर्यद्धृतं तन्मूलयाऽत्र सकलमपि जगद्रक्षितं भवति । अथ विपर्यये विपर्ययश्च भवतीत्याहुः । नालोकं कर्तुमर्हसीति । निजतेजः पातयित्वाऽऽदित्यं विनाश्य अलोकं-सर्वलोकास्तमयं कर्तुं नार्हसि ॥ १२ ॥

 देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
 बाढमित्यब्रवीत् सर्वान् [१]ततश्चैवमुवाच ह ॥ १३ ॥

 एवं सर्वदेववचनं श्रुत्वा, सर्वदेवतावयाविनस्तस्य च, स्वावयवसर्वदेवतानाशे स्वस्य च छिन्नाशेषशाखास्थाणुताप्रसङ्गात् अवश्यं देववचनं कर्तव्यमङ्गीकरोतीत्याह-देवतानां वचःश्रुत्वा बाढमित्यब्रवीदिति । बाढमित्यङ्गीकृतांश एव प्रतिपाद्यते-ततश्चैवमुवाच ह ॥ १३ ॥

 धारयिष्याम्यहं तेजः तेजस्येव सहोमया
 त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ १४ ॥

 धारयिष्यामीत्यादि । उमया सहेति । उमाऽपि स्ववीर्यं रजोमयेऽग्नौ स्वतेजसि बिभर्तु । 'तद्यदेतत् स्त्रियां लोहितं भवति अग्नेस्तद्रूपम्' इति श्रुतेः मातृरजोऽग्निरेव । अहमपि स्ववीर्यं सृतं सत्त्वमये रसे भरिष्यामि । एवं च । त्रिदशाः पृथिवी चैव निर्वाणं-सौख्यं अधिगच्छतु । ईश्वरयोस्तेजसोर्भुवि पाते दाहदुर्भरत्वाभ्यां पृथिवी-


  1. पुनश्चेदमुवा च-ङ