पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
292
बालकाण्डः
ईश्वरं प्रति देवानां प्रार्थना

 पुरा राम ! कृतोद्वाहो नीलकण्ठो महातपाः ।
 दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ ६ ॥
 शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।

 कृतोद्वाहः-कृतोमापरिणयः। देवीं दृष्ट्वा तया सह मैथुनायेति योजना । गतमिति । क्रीडयेति शेषः ॥ ६ ॥

 [१]तस्य संक्रीडमानस्य महादेवस्य धीमतः ॥ ७ ॥
 [२]न चापि तनयो राम ! तस्यामासीत् परंतप !

 तनय इति । रुद्रपुत्राय उमासंयोजन परमयत्नपूर्व प्रार्थितप्रादुर्भावस्वसेना सेनानीचिकीर्षितो रुद्रतेजोमयस्त्वसह्यः पुत्र इत्यर्थः ॥ ७ ॥

 ततो देवाः [३]समुद्युक्ताः पितामहपुरोगमाः ।
 यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यते ॥ ८ ॥

 तत इत्यादि । समुद्युक्ता इति । वर्षशतक्रीडा[४]वशान्मुमुक्षाकाले रौद्रतेजसो मोचनं वारयितुं समुद्युक्ता बभूवुरित्यर्थः । एवं व्याख्यानं तु 'यस्मान्निवारिता चैव संगतिः पुत्रकाम्यया' इति ईश्वरीवचनात् वक्ष्यमाणात्स्पष्टम् । कथं रुद्रपुत्राय उमासंयोजनादियत्नं कुर्वद्भिः रुद्रतेजोमोचननिवारणोद्योगः? इत्यत्रोच्यते-तदित्यादि । इह-अस्या-मुमायां अतः परमपि कियत्कालक्रीडानन्तरमीश्वरेच्छया विमुक्तं रौद्रतेजोऽस्यां भूतं-गर्भत्वेन सम्भूतं-सिद्धं, पश्चाद्यथोचितकालानन्तरं यदि लोकवदेव पुत्ररूपं उत्पद्येत कस्तत्प्रतिसहिष्यते ? न कोऽपि देवोऽन्यो वा तत्पुरस्तात् स्थातुं, अन्ततो निरीक्षितुमपि शक्नोति । यतो रुद्रकोपज-


  1. एतदनन्तर 'एवं मन्मथयुद्धे तु तयोर्नासीत्पराजयः' इति चाधिकमन्यत्र-ङ.
  2. एतदनन्तरं-धीमतो देवराजस्य रुद्रस्यापि महात्मनः । इत्यधिकं-ङ.
  3. समुद्विग्नाः-ङ.
  4. वशप्राप्तमुमुक्षा-घ.