पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
291
आसीत् हिमवतः कन्याद्वयं गङ्गेत्युमेति च

अथ षट्त्रिंशः सर्गः
[ईश्वरं प्रति देवानां प्रार्थना]

 उक्तवाक्ये मुनौ तस्मिन् उभौ राघवलक्ष्मणौ ।
 अभिनन्द्य कथां वीरौ ऊचतुर्मुनिपुङ्गवम् ॥ १ ॥

 एवं गङ्गोमयोरुत्पत्त्यादिके संक्षेपत उक्ते पुनम्तद्विषयकविस्तारप्रश्ने तत्प्रतिपादनं-उक्तवाक्य इत्यादि । तस्मिन्निति । उपरत इति शेषः ॥ १ ॥

 धर्मयुक्तमिदं ब्रह्मन् ! कथितं परमं त्वया ।
 दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ॥ २ ॥
 विस्तरं, विस्तरज्ञोऽसि, दिव्यमानुषसम्भवम् ।

 शैलराजस्य ज्येष्ठाया दुहितुर्दिव्यमानुषसम्भव-द्युलोक- निबन्धनंमानुषलोकनिबन्धनं च विस्तरं वक्तुमर्हसि ॥२॥

 त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ॥ ३ ॥

 को युष्मच्छुश्रूषितो विस्तर इत्यतः-त्रीनित्यादि । त्रीन् पथः-भूर्भुवस्स्वर्मार्गान् केन हेतुना प्लावयेत् ? इत्येतद्विषयक एकः शुश्रूषित-विस्तरः द्वितीयस्त्रिपथगेति प्रसिद्धिः किं निबन्धना,त्रिलोक्यां गङ्गायाः कर्म चरितं च कीदृशमित्येतद्विषयकश्च विस्तरश्शुश्रूषित इत्यर्थः ॥ ३ ॥

 कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ।
 त्रिषु लोकेषु धर्मज्ञ ! कर्मभिः कैस्समन्विता ॥ ४ ॥

 कथमिति प्रश्नस्याग्रिमसर्गैरुत्तरं भविष्यति ॥ ४ ॥

 तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।
 निखिलेन कथां सर्वां ऋषिमध्ये न्यवेदयत् ॥ ५ ॥

 निखिलेन–कार्येन–विस्तरेणेति यावत् ॥ ५ ॥